|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.241. अध्यायः 241
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति व्यासकृतब्राह्मणधर्मकथनपूर्वकज्ञानप्रशंसनानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-241-0x(6232)(75199)
त्रयीं विद्यामवेक्षेत वेदेपूत्तमतां गतः।
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा॥ 12-241-1(75200)
[तिष्ठत्येतेषु भगवान्षट्सु कर्मसु संस्थितः।]
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये॥ 12-241-2(75201)
सत्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ।
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत्॥ 12-241-3(75202)
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः।
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः॥ 12-241-4(75203)
स्वधर्मेण क्रिया लोके कुर्वाणः सोऽप्यसङ्करः।
तिष्ठते तेषु गृहवान्षट्सु कर्मसु स द्विजः॥ 12-241-5(75204)
पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च।
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति॥ 12-241-6(75205)
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति॥ 12-241-7(75206)
धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्॥ 12-241-8(75207)
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च।
वर्जयेदुशतीं वाचं हिंसां चाधर्मसंहिताम्॥ 12-241-9(75208)
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते।
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिद्ध्यति॥ 12-241-10(75209)
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्।
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान्॥ 12-241-11(75210)
कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम्॥ 12-241-12(75211)
महता विधिदृष्टेन बलिनाऽप्रतिघातिना।
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत्॥ 12-241-13(75212)
कालोदकेन महता वर्षावर्तेन संततम्।
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च॥ 12-241-14(75213)
निर्मषोन्मेषफेनेन अहोरात्रजवेन च।
कामग्राहेण घोरेण वेदयज्ञप्लवेन च॥ 12-241-15(75214)
धर्मद्वीपेन भूतानां चार्थकामरवेण च।
ऋतवाङ्भोक्षतीरेण विहिंसातरुवाहिना॥ 12-241-16(75215)
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च।
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम्॥ 12-241-17(75216)
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः।
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः॥ 12-241-18(75217)
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः।
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति॥ 12-241-19(75218)
संशयात्तु स कामात्मा चलचित्तोऽल्पचेतनः।
अप्राज्ञो न तरत्येनं यो ह्यास्ते न स गच्छति॥ 12-241-20(75219)
अप्लवो हि महादोषं मुह्यमानो न गच्छति।
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः॥ 12-241-21(75220)
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः।
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत्॥ 12-241-22(75221)
त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत्।
तस्मादुन्मज्जनं तिष्ठेत्प्रज्ञया निस्तरेद्यथा॥ 12-241-23(75222)
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः।
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च॥ 12-241-24(75223)
वर्तेत तेषु गृहवानक्रुध्यन्ननसूयकः।
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च॥ 12-241-25(75224)
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्।
असंरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम्॥ 12-241-26(75225)
श्रुतविज्ञानतत्त्वज्ञः शिष्टाचारविचक्षणः।
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः॥ 12-241-27(75226)
क्रियावाञ्श्रद्दधानो कहि दान्तः प्रायोऽनसूयकः।
धमार्धर्मविशेषज्ञः सर्वं तरति दुस्तरम्॥ 12-241-28(75227)
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति॥ 12-241-29(75228)
एषा पुरातनी वृत्तिर्ब्राह्मणस्य विधीयते।
ज्ञानवृद्ध्यैव कर्माणि कुर्वन्सर्वत्र सिध्यति॥ 12-241-30(75229)
अधर्मं धर्मकामो हि करोति ह्यविचक्षणः।
धर्मं वा धर्मसंकाशं शोचन्निव करोति सः॥ 12-241-31(75230)
धर्मं करोमीति करोत्यधर्म
मधर्मकामश्च करोति धर्मम्।
उभे बालः कर्मणी न प्रजानम्
संजायते म्रियते चापि देही॥ ॥ 12-241-32(75231)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 241॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-241-1 वेदेषूक्तामथाङ्गत इति झ. पाठः॥ 12-241-7 एतैर्वर्धयते इति झ. पाठः॥ 12-241-12 काममन्यूद्धतं पश्यन्नित्यमत्यन्तमोहितमिति ट. थ. ध. पाठः॥ 12-241-17 ब्रह्मप्रायभवेन ब्रह्मकार्यभूतेन। स्रोतसा युगभूतेन ब्रह्मप्रायभवेन चेति ट. थ. पाठः॥ 12-241-23 अवदातेषु शुद्धेषु कुलेष्विति शेषः। त्रिष्वध्यापनयाजनप्रतिग्रहेषु संदेहवांस्तत्राप्रवृत्त इत्यर्थखः। त्रिकर्मकृत् स्वाध्याययजनदानकृत्॥ 12-241-27 शिष्टशास्त्रविचक्षण इति ट. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|